|
|
 |
 |
|
|
१२ शान्तिपर्व.jpg)
॥ श्रीः ॥
12.268. अध्यायः 268
Mahabharata - Shanti Parva - Chapter Topics
तुलाधारेण जाजलये धर्मरहस्योपदेशः॥ 1॥

Mahabharata - Shanti Parva - Chapter Text
भीष्म उवाच। 12-268-0x(6289)(75969)
इत्युक्तः स तदा तेन तुलाधारेण धीमता।
प्रोवाच वचनं धीमाञ्जाजलिर्जपतांवरः॥ 12-268-1(75970)
जाजलिरुवाच। 12-268-2x(6290)
विक्रीणतः सर्वरसान्सर्वगन्धांश्च वाणिज।
वनस्पतीनोषधीश्च तेषां मूलफलानि च॥ 12-268-2(75971)
अग्र्या सा नैष्ठिकी बुद्धिः कुतस्त्वामियमागता।
एतदाचक्ष्व मे सर्वं निखिलेन महामते॥ 12-268-3(75972)
भीष्म उवाच। 12-268-4x(6291)
एवमुक्तस्तुलाधारो ब्राह्मणेन यशस्विना।
उवाच धर्मसूक्ष्माणि वैश्यो धर्मार्थतत्त्ववित्॥ 12-268-4(75973)
वेदाहं जाजले धर्मं सरहस्यं सनातनम्।
सर्वभूतहितं मैत्रं पुराणं यं जना विदुः॥ 12-268-5(75974)
अद्रोहेणैव भूतानामल्पद्रोहेण वा पुनः।
या वृत्तिः स परो धर्मस्तेन जीवामि जाजले॥ 12-268-6(75975)
परिच्छिन्नैः काष्ठतृणैर्मयेदं शरणं कृतम्।
अलक्तं पद्मकं तुङ्गं गन्धांश्चोच्चावचांस्तथा॥ 12-268-7(75976)
रसांश्च तांस्तान्विप्रर्षे मद्यवर्ज्यान्बहूनहम्।
क्रीत्वा वै प्रतिविक्रीणे परहस्तादमायया॥ 12-268-8(75977)
सर्वेषां यः सुहृन्नित्यं सर्वेषां च हिते रतः।
कर्मणा मनसा वाचा स धर्मं वेद जाजले॥ 12-268-9(75978)
नानुरुध्ये विरुध्ये वा न द्वेष्मि न च कामये।
समोऽहं सर्वभूतेषु पश्य मे जाजले व्रतम्।
तुला मे सर्वभूतेषु समा तिष्ठति जाजले॥ 12-268-10(75979)
नाहं परेषां कृत्यानि प्रशंसामि न गर्हये।
आकाशस्येव विप्रेन्द्र पश्यँल्लोकस्य चित्रताम्॥ 12-268-11(75980)
`कृपा मे सर्वभूतेषु समा तिष्ठति जाजले।
इष्टानिष्टनियुक्तस्य प्रियद्वेषौ बहिष्कृतौ॥' 12-268-12(75981)
इति मां त्वं विजानीहि सर्वलोकस्य जाजले।
समं मतिमतां श्रेष्ठ समलोष्टाश्मकाञ्चनम्॥ 12-268-13(75982)
यथाऽन्धबधिरोत्मत्ता उच्छ्वासपरमाः सदा।
देवैरपिहितद्वाराः सोपमा पश्यतो मम॥ 12-268-14(75983)
यथा वृद्धातुरकृशा निस्पृहा विषयान्प्रति।
तथाऽर्थकामभोगेषु ममापि विगता स्पृहा॥ 12-268-15(75984)
यदा चायं न बिभेति यदा चास्मान्न बिभ्यति।
यदा नेच्छति न द्वेष्टि तदा सिद्ध्यति वै द्विज॥ 12-268-16(75985)
यदा न कुरुते भावं सर्वभूतेषु पापकम्।
कर्मणा मनसा वाचा ब्रह्म संपद्यते तदा॥ 12-268-17(75986)
न भूतो न भविष्योऽस्ति न च धर्मोस्ति कश्चन।
योऽभयः सर्वभूतानां स प्राप्नोत्यभयं पदम्॥ 12-268-18(75987)
यस्मादुद्विजते लोकः सर्वो मृत्युमुखादिव।
वाक्क्रूराद्दण्डपरुषात्स प्राप्नोति महद्भयम्॥ 12-268-19(75988)
यथावद्वर्तमानानां वृद्धानां पुत्रपौत्रिणाम्।
अनुवर्तामहे वृत्तमहिंस्त्राणां महात्मनाम्॥ 12-268-20(75989)
प्रनष्टः शाश्वतो धर्मः सदाचारेण मोहितः।
तेन वैद्यस्तपस्वी वा बलवान्वा विमुह्यते॥ 12-268-21(75990)
आचाराज्जाजले प्राज्ञः क्षिप्रं धर्ममवाप्नुयात्।
एवं यः साधुभिर्दान्तश्चरेदद्रोहचेतसा॥ 12-268-22(75991)
नद्यां चेह यथा काष्ठमुह्यमानं यदृच्छया।
यदृच्छयैव काष्ठेन सन्धि गच्छेत केनचित्॥ 12-268-23(75992)
तत्रापराणि दारूणि संसृज्यन्ते ततस्ततः।
तृणकाष्ठकरीपाणि कदाचिन्न समीक्षया॥ 12-268-24(75993)
यस्मान्नोद्विजते भूतं जातु किंचित्कथंचन।
अभयं सर्वभूतेभ्यः स प्राप्नोति सदा मुने॥ 12-268-25(75994)
यस्मादुद्विजते विद्वन्सर्वलोको वृकादिव।
क्रोशतस्तीरमासाद्य यथा सर्वे जलेचराः॥ 12-268-26(75995)
एवमेवायमाचारः प्रादुर्भूतो यतस्ततः।
सहायवान्द्रव्यवान्यः सुभगोऽथ परस्तथा॥ 12-268-27(75996)
ततस्तानेव कवयः शास्त्रेषु प्रवदन्त्युत।
कीर्त्यर्थमल्पहृल्लेखाः पटवः कृत्स्ननिर्णयाः॥ 12-268-28(75997)
तपोभिर्यज्ञदानैश्च वाक्यैः प्रज्ञाश्रितैस्तथा।
प्राप्नोत्यभयदानस्य यद्यत्फलमिहाश्नुते॥ 12-268-29(75998)
लोके यः सर्वभूतेभ्यो ददात्यभयदक्षिणाम्।
स सत्ययज्ञैरीजानः प्राप्नोत्यभयदक्षिणाम्॥ 12-268-30(75999)
न भूतानामहिंसाया ज्यायान्धर्मोऽस्ति कश्चन।
यस्मान्नोद्विजते भूतं जातु किंचित्कथंचन।
सोऽभयं सर्वभूतेभ्यः संप्राप्नोति महामुने॥ 12-268-31(76000)
यस्मादुद्विजते लोकः सर्पाद्वेश्मगतादिव।
न स धर्ममवाप्नोति इह लोके परत्र च॥ 12-268-32(76001)
सर्वभूतात्मभूतस्य सर्वभूतानि पश्यतः।
देवाऽपि मार्गे मुह्यन्ति ह्यपदस्य पदैपिणः॥ 12-268-33(76002)
दानं भूताभयस्याहुः सर्वदानेभ्य उत्तमम्।
ब्रवीमि ते सत्यमिदं श्रद्धत्स्व मम जाजले॥ 12-268-34(76003)
स एव सुभगो भूत्वा पुनर्भवति दुर्भगः।
व्यापत्तिं कर्मणां दृष्ट्वा जुगुप्सन्ति जनाः सदा॥ 12-268-35(76004)
अकारणो हि नैवास्ति धर्मः सूक्ष्मो हि जाजले।
भूतभव्यार्थमेवेह धर्मप्रवचनं कृतम्॥ 12-268-36(76005)
सूक्ष्मत्वान्न स विज्ञातुं शक्यते बहुनिह्नवः।
उपलभ्यान्तरा चान्यानाचारानवबुध्यते॥ 12-268-37(76006)
ये च च्छिन्दन्ति वृषणान्ये च भिन्दन्ति नस्तकान्।
वहन्ति महतो भारान्बध्नन्ति दमयन्ति च।
हत्वा सत्वानि खादन्ति तान्कथं न विगर्हसे॥ 12-268-38(76007)
मानुषा मानुपानेव दासभोगेन भुञ्जते।
वधबन्धनिरोधेन कारयन्ति दिवानिशम्॥ 12-268-39(76008)
आत्मनश्चापि जानाति यद्दुःखं वधबन्धने।
पञ्चेन्द्रियेषु भूतेषु सर्वं वसति दैवतम्॥ 12-268-40(76009)
आदित्यश्चन्द्रमा वायुर्ब्रह्मा प्राणः क्रतुर्यमः।
तानि जीवानि विक्रीय का मृतेषु विचारणा॥ 12-268-41(76010)
अजोऽग्निर्वरुणो मेपः सूर्योऽश्वः पृथिवी विराट्।
धेनुर्वत्सश्च सोमो वै विक्रीयैतन्न सिध्यति॥ 12-268-42(76011)
का तैले का धृते ब्रह्मन्मधुन्यप्स्वोषधीषु वा॥ 12-268-43(76012)
अदंशमशके देशे सुखसंवर्धितान्पशून्।
तांश्च मातुः प्रियाञ्जानन्नाक्रम्य बहुधा नराः॥ 12-268-44(76013)
बहुदंशाकुलान्देशान्नयन्ति बहुकर्दमान्।
वाहसंपीडिता धुर्याः सीदन्त्यविधिना परे॥ 12-268-45(76014)
न मन्ये भ्रूणहत्याऽपि विशिष्टा तेन कर्मणा।
कृपिं साध्विति मन्यन्ते सा च वृत्तिः सुदारुणा॥ 12-268-46(76015)
भूमिं भूमिशयांश्चैव हन्ति काष्ठैरयोमुखैः।
तथैवानडुहो युक्तान्क्षुत्तृष्णाश्रमकर्शितान्॥ 12-268-47(76016)
अध्न्या इति गवां नाम क एता हन्तुमर्हति।
महच्चकाराकुशलं वृथा यो गां निहन्ति ह॥ 12-268-48(76017)
ऋपयो यतयो ह्येतन्नहुपे प्रत्यवेदयन्।
गां मातरं चाप्यवधीर्वृपभं च प्रजापतिम्।
अकार्यं नहुपाकापींर्लप्स्यामस्त्वत्कृते व्यथाम्॥ 12-268-49(76018)
शतं चैकं च रोगाणां सर्वभूतेष्वपातयन्।
ऋपयस्ते महाभागाः प्रशस्तास्ते च जाजले॥ 12-268-50(76019)
भ्रृणहं नहुषं त्वाहुर्न तं भोक्ष्यामहे वयम्।
इत्युक्त्वा ते महात्मानः सर्वे तत्त्वार्थदर्शिनः।
ऋषयो यतयः शान्तास्तपसा प्रत्येषधयन्॥ 12-268-51(76020)
ईदृशानशिवान्घोरानाचारानिह जाजले।
केवलाचरितत्वात्तु निपुणो नावबुध्यसे॥ 12-268-52(76021)
कारणाद्धर्ममन्विच्छन्न लोकं विरसं चरेत्॥ 12-268-53(76022)
यो हन्याद्यश्च मां स्तौति तत्रापि शृणु जाजले।
समौ तावपि मे स्थातां न हि मे स्तः प्रियाप्रिये।
एतदीदृशकं धर्मं प्रशंसन्ति मनीषिणः॥ 12-268-54(76023)
उपपत्त्या हि संपन्नो यतिभिश्चैव सेव्यते।
सततं धर्मशीलैश्च निपुणेनोपलक्षितः॥ ॥ 12-268-55(76024)
इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि अष्टषष्ट्यधिकद्विशततमोऽध्यायः॥ 268॥
Mahabharata - Shanti Parva - Chapter Footnotes
12-268-2 वाणिज वणिक्पुत्र॥ 12-268-3 अध्यगा नैष्ठकीं बुद्धिं कुतस्त्वामिदमागतमिति झ. पाठः॥ 12-268-7 पद्मकं तुङ्गं च काष्ठविशेषौ। कस्तूर्यादीन्गन्धान्॥ 12-268-8 रसान् लवणादीन्॥ 12-268-16 न द्वेष्टि ब्रह्म संपद्यते तदेति झ. पाठः॥ 12-268-26 दृष्टान्ते वडवाग्निः॥ 12-268-33 सम्यग्भृतानि पश्यत इति ध. पाठः॥ 12-268-35 व्यापत्ति नाशम्। कर्मणां कर्मफलानां स्वर्गादीनाम्॥ 12-268-36 अकारणः कारणमनुष्ठानप्रयोजकं फलं तद्धीनः॥ 12-268-38 यदुक्तमलक्तपद्मकादीन्यपण्यानि विक्रीणासीति तत्राह येचेति। नस्तकान् नासागर्भान्। वहन्ति वाहयन्ति॥ 12-268-39 दासभावेन भुञ्जते इति झ. पाठः॥ 12-268-45 अविधिना कत्वर्थापि हिंसा दोपावहा किमुताऽकत्वर्थेत्यर्थः॥ 12-268-47 भूमिशयान्सर्पादीन्। अयोमुखं काष्ठं लाङ्गलम्॥ 12-268-48 न हन्तुं शक्या अध्न्या इति योगाद्गवमावध्यत्वं श्रौतमित्यर्थः॥ 12-268-50 नहुपकृता गोवृपहत्या सर्वभूतेष्वेकाधिकशतरोगरूपेण क्षिप्तत्यर्थः॥ 12-268-51 एवमुक्त्वापि तपसा ध्यानेन तं प्रत्यवेदयन् प्रतीपमवेदयन्। हन्तारमपि धीपूर्वमहन्तारं नहुपं ध्यानबलेन ज्ञात्वा तथैव लोकेऽपि प्रमादात्कृतोऽपि गोवधो व्याधिरूपेण सर्वलोकापकारायाभृत किमुत बुद्धिपूर्वं कुत इति ज्ञापितवन्त इत्यर्थः॥ 12-268-52 केवलेति पूर्वैः कृत इत्यन्धपरंपरामात्रात्करोपि नतु तत्त्वबुद्ध्या॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|